Sukta 10.71
सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः । किल्बिषस्पृत्पितुषणिर्ह्येषामरं हितो भवति वाजिनाय ॥
सर्वे॑ नन्दन्ति य॒शसाग॑तेन सभासा॒हेन॒ सख्या॒ सखा॑यः । कि॒ल्बि॒ष॒स्पृत्पि॑तु॒षणि॒र्ह्ये॑षा॒मरं॑ हि॒तो भव॑ति॒ वाजि॑नाय ॥
sárve nandanti yaśásā́gatena sabhāsāhéna sakhyā́ sakhā́yaḥ | kilbiṣáspṛt pitúṣaṇír hy eṣā́m áraṃ hitó bhavati vā́jināya ||
All the companions rejoice in the friendship of one who arrives with glory, a conqueror in the assembly. For them he is a cleanser of fault, a giver of nourishment; he becomes fitly placed for plenitude of force.
सर्वे॑ । न॒न्द॒न्ति॒ । य॒शसा॑ । आऽग॑तेन । स॒भा॒ऽसा॒हेन॑ । सख्या॑ । सखा॑यः । कि॒ल्बि॒ष॒ऽस्पृत् । पि॒तु॒ऽसणिः॑ । हि । ए॒षा॒म् । अर॑म् । हि॒तः । भव॑ति । वाजि॑नाय ॥सर्वे । नन्दन्ति । यशसा । आगतेन । सभासाहेन । सख्या । सखायः । किल्बिषस्पृत् । पितुसणिः । हि । एषाम् । अरम् । हितः । भवति । वाजिनाय ॥sarve | nandanti | yaśasā | āgatena | sabhāsāhena | sakhyā | sakhāyaḥ | kilbiṣa-spṛt | pitu-saṇiḥ | hi | eṣām | aram | hitaḥ | bhavati | vājināya