Sukta 10.71
अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥
अ॒क्ष॒ण्वन्त॒: कर्ण॑वन्त॒: सखा॑यो मनोज॒वेष्वस॑मा बभूवुः । आ॒द॒घ्नास॑ उपक॒क्षास॑ उ त्वे ह्र॒दा इ॑व॒ स्नात्वा॑ उ त्वे ददृश्रे ॥
akṣaṇvántáḥ kárṇavantáḥ sakhā́yo manojavéṣv ásamā babhūvuḥ | ādaghnā́sa upakakṣā́sa u tve hradā́ iva snā́tvā u tve dadṛśre ||
Companions with eyes, companions with ears became unequal in the swift movements of the mind. Some are only up to the knees, some up to the armpits; but others—like pools after bathing—shine forth in you, made clear.
अ॒क्ष॒ण्ऽवन्तः॑ । कर्ण॑ऽवन्तः । सखा॑यः । म॒नः॒ऽज॒वेषु॑ । अस॑माः । ब॒भू॒वुः॒ । आ॒द॒घ्नासः॑ । उ॒प॒ऽक॒क्षासः॑ । ऊँ॒ इति॑ । त्वे॒ । ह्र॒दाःऽइ॑व । स्नात्वाः॑ । ऊँ॒ इति॑ । त्वे॒ । द॒दृ॒श्रे॒ ॥अक्षण्वन्तः । कर्णवन्तः । सखायः । मनःजवेषु । असमाः । बभूवुः । आदघ्नासः । उपकक्षासः । ऊँ इति । त्वे । ह्रदाःइव । स्नात्वाः । ऊँ इति । त्वे । ददृश्रे ॥akṣaṇ-vantaḥ | karṇa-vantaḥ | sakhāyaḥ | manaḥ-javeṣu | asamāḥ | babhūvuḥ | ādaghnāsaḥ | upa-kakṣāsaḥ | oṃ iti | tve | hradāḥ-iva | snātvāḥ | oṃ iti | tve | dadṛśre