Sukta 10.71
यस्तित्याज सचिविदं सखायं न तस्य वाच्यपि भागो अस्ति । यदीं शृणोत्यलकं शृणोति नहि प्रवेद सुकृतस्य पन्थाम् ॥
यस्ति॒त्याज॑ सचि॒विदं॒ सखा॑यं॒ न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति । यदीं॑ शृ॒णोत्यल॑कं शृणोति न॒हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॑म् ॥
yás tityā́ja sacivídaṃ sakhā́yaṃ ná tásya vā́cy ápi bhāgó asti | yad ī́ṃ śṛṇóty álakāṃ śṛṇoti náhi pravéda sukṛtásya pánthām ||
He who abandons the companion who knows the right working, for him there is no share even in the Word. Though he hears, he hears only what is empty; he does not truly know the path of the well-done work.
यः । ति॒त्याज॑ । स॒चि॒ऽविद॑म् । सखा॑यम् । न । तस्य॑ । वा॒चि । अपि॑ । भा॒गः । अ॒स्ति॒ । यत् । ई॒म् । शृ॒णोति॑ । अल॑कम् । शृ॒णो॒ति॒ । न॒हि । प्र॒ऽवेद॑ । सु॒ऽकृ॒तस्य॑ । पन्था॑म् ॥यः । तित्याज । सचिविदम् । सखायम् । न । तस्य । वाचि । अपि । भागः । अस्ति । यत् । ईम् । शृणोति । अलकम् । शृणोति । नहि । प्रवेद । सुकृतस्य । पन्थाम् ॥yaḥ | tityāja | saci-vidam | sakhāyam | na | tasya | vāci | api | bhāgaḥ | asti | yat | īm | śṛṇoti | alakam | śṛṇoti | nahi | pra-veda | su-kṛtasya | panthām