Sukta 10.71
उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम् । उतो त्वस्मै तन्वं वि सस्रे जायेव पत्य उशती सुवासाः ॥
उ॒त त्व॒: पश्य॒न्न द॑दर्श॒ वाच॑मु॒त त्व॑: शृ॒ण्वन्न शृ॑णोत्येनाम् । उ॒तो त्व॑स्मै त॒न्वं१॒॑ वि स॑स्रे जा॒येव॒ पत्य॑ उश॒ती सु॒वासा॑: ॥
utá tvaḥ páśyanná dadarśa vā́cam utá tvaḥ śṛṇvánná śṛṇoty enām | utó tvasmái tanvàm ví sasre jāyéva pátya uśatī́ suvā́sāḥ ||
And one, though seeing, does not behold the Word; and one, though hearing, does not truly hear her. But to another she unveils her body—like a wife, eager and well-adorned, to her husband.
उ॒त । त्वः॒ । पश्य॑न् । न । द॒द॒र्श॒ । वाच॑म् । उ॒त । त्वः॒ । शृ॒ण्वन् । न । शृ॒णो॒ति॒ । ए॒ना॒म् । उ॒तो इति॑ । त्व॒स्मै॒ । त॒न्व॑म् । वि । स॒स्रे॒ । जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ ॥उत । त्वः । पश्यन् । न । ददर्श । वाचम् । उत । त्वः । शृण्वन् । न । शृणोति । एनाम् । उतो इति । त्वस्मै । तन्वम् । वि । सस्रे । जायाइव । पत्ये । उशती । सुवासाः ॥uta | tvaḥ | paśyan | na | dadarśa | vācam | uta | tvaḥ | śṛṇvan | na | śṛṇoti | enām | uto iti | tvasmai | tanvam | vi | sasre | jāyāiva | patye | uśatī | su-vāsāḥ