Sukta 10.71
यज्ञेन वाचः पदवीयमायन्तामन्वविन्दन्नृषिषु प्रविष्टाम् । तामाभृत्या व्यदधुः पुरुत्रा तां सप्त रेभा अभि सं नवन्ते ॥
य॒ज्ञेन॑ वा॒चः प॑द॒वीय॑माय॒न्तामन्व॑विन्द॒न्नृषि॑षु॒ प्रवि॑ष्टाम् । तामा॒भृत्या॒ व्य॑दधुः पुरु॒त्रा तां स॒प्त रे॒भा अ॒भि सं न॑वन्ते ॥
yajñéna vā́caḥ padavī́yam ā́yan tām ánv avindan ṛ́ṣiṣu práviṣṭām | tā́m ā́bhṛtya vy àdadhuḥ purutrā́ tā́ṃ saptá rebhā́ abhí sáṃ navante ||
By the yajña they went along the path of the Word; they found her, entered into the seers. Bringing her forward, they set her out in many directions; to that Word the seven inspired chanters bow together in assent.
य॒ज्ञेन॑ । वा॒चः । प॒द॒ऽवीय॑म् । आ॒य॒न् । ताम् । अनु॑ । अ॒वि॒न्द॒न् । ऋषि॑षु । प्रऽवि॑ष्टाम् । ताम् । आ॒ऽभृत्य॑ । वि । अ॒द॒धुः॒ । पु॒रु॒ऽत्रा । ताम् । स॒प्त । रे॒भाः । अ॒भि । सम् । न॒व॒न्ते॒ ॥यज्ञेन । वाचः । पदवीयम् । आयन् । ताम् । अनु । अविन्दन् । ऋषिषु । प्रविष्टाम् । ताम् । आभृत्य । वि । अदधुः । पुरुत्रा । ताम् । सप्त । रेभाः । अभि । सम् । नवन्ते ॥yajñena | vācaḥ | pada-vīyam | āyan | tām | anu | avindan | ṛṣiṣu | pra-viṣṭām | tām | ābhṛtya | vi | adadhuḥ | puru-trā | tām | sapta | rebhāḥ | abhi | sam | navante