Sukta 10.71
सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत । अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधि वाचि ॥
सक्तु॑मिव॒ तित॑उना पु॒नन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त । अत्रा॒ सखा॑यः स॒ख्यानि॑ जानते भ॒द्रैषां॑ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि ॥
saktúm iva títāunā punántaḥ yátra dhīrā́ manásā vā́cam ákrata | átrā sakhā́yaḥ sakhyā́ni jānate bhadráiṣāṃ lakṣmī́r nihitā́dhi vā́ci ||
As men sift meal with a sieve, so they purify (their utterance): where the steadfast in vision, with the mind, shaped the Word. There the companions come to know the bonds of companionship; a gracious felicity of theirs lies hidden within the Word.
सक्तु॑म्ऽइव । तित॑ऽउना । पु॒नन्तः॑ । यत्र॑ । धीराः॑ । मन॑सा । वाच॑म् । अक्र॑त । अत्र॑ । सखा॑यः । स॒ख्यानि॑ । जा॒न॒ते॒ । भ॒द्रा । ए॒षा॒म् । ल॒क्ष्मीः । निहि॑ता । अधि॑ । वा॒चि ॥सक्तुम्इव । तितउना । पुनन्तः । यत्र । धीराः । मनसा । वाचम् । अक्रत । अत्र । सखायः । सख्यानि । जानते । भद्रा । एषाम् । लक्ष्मीः । निहिता । अधि । वाचि ॥saktum-iva | tita-unā | punantaḥ | yatra | dhīrāḥ | manasā | vācam | akrata | atra | sakhāyaḥ | sakhyāni | jānate | bhadrā | eṣām | lakṣmīḥ | nihitā | adhi | vāci