Sukta 10.71
बृहस्पते प्रथमं वाचो अग्रं यत्प्रैरत नामधेयं दधानाः । यदेषां श्रेष्ठं यदरिप्रमासीत्प्रेणा तदेषां निहितं गुहाविः ॥
बृह॑स्पते प्रथ॒मं वा॒चो अग्रं॒ यत्प्रैर॑त नाम॒धेयं॒ दधा॑नाः । यदे॑षां॒ श्रेष्ठं॒ यद॑रि॒प्रमासी॑त्प्रे॒णा तदे॑षां॒ निहि॑तं॒ गुहा॒विः ॥
bṛ́haspate prathamáṃ vā́co ágraṃ yát prā́irata nā́ma-dhéyaṃ dádhānāḥ | yád eṣā́ṃ śréṣṭhaṃ yád arí-pram āsī́t preṇā́ tád eṣā́ṃ níhitaṃ guhā́ āvíḥ ||
O Bṛhaspati, when they first set in motion the forefront of Speech, establishing the Name—then what was their best, what was flawless, by the impulse of the soul: that was hidden in the cave and became manifest.
बृह॑स्पते । प्र॒थ॒मम् । वा॒चः । अग्र॑म् । यत् । प्र । ऐर॑त । ना॒म॒ऽधेय॑म् । दधा॑नाः । यत् । ए॒षा॒म् । श्रेष्ठ॑म् । यत् । अ॒रि॒प्रम् । आसी॑त् । प्रे॒णा । तत् । ए॒षा॒म् । निऽहि॑तम् । गुहा॑ । आ॒विः ॥बृहस्पते । प्रथमम् । वाचः । अग्रम् । यत् । प्र । ऐरत । नामधेयम् । दधानाः । यत् । एषाम् । श्रेष्ठम् । यत् । अरिप्रम् । आसीत् । प्रेणा । तत् । एषाम् । निहितम् । गुहा । आविः ॥bṛhaspate | prathamam | vācaḥ | agram | yat | pra | airata | nāma-dheyam | dadhānāḥ | yat | eṣām | śreṣṭham | yat | aripram | āsīt | preṇā | tat | eṣām | ni-hitam | guhā | āviḥ