Sukta 10.7
अग्निं मन्ये पितरमग्निमापिमग्निं भ्रातरं सदमित्सखायम् । अग्नेरनीकं बृहतः सपर्यं दिवि शुक्रं यजतं सूर्यस्य ॥
अ॒ग्निं म॑न्ये पि॒तर॑म॒ग्निमा॒पिम॒ग्निं भ्रात॑रं॒ सद॒मित्सखा॑यम् । अ॒ग्नेरनी॑कं बृह॒तः स॑पर्यं दि॒वि शु॒क्रं य॑ज॒तं सूर्य॑स्य ॥
agním manye pitáram agním ā́pim agním bhrā́taram sádam ít sakhā́yam | agnér anī́kaṃ bṛhatáḥ sapáryaṃ diví śukráṃ yájatam sū́ryasya ||
I regard Agni as the Father, Agni as the near kin, Agni as the Brother, ever the Friend. I serve the vast front of Agni—his shining, adorable face in heaven, the pure radiance of the Sun.
अ॒ग्निम् । म॒न्ये॒ । पि॒तर॑म् । अ॒ग्निम् । आ॒पिम् । अ॒ग्निम् । भ्रात॑रम् । सद॑म् । इत् । सखा॑यम् । अ॒ग्नेः । अनी॑कम् । बृ॒ह॒तः । स॒प॒र्य॒न् । दि॒वि । शु॒क्रम् । य॒ज॒तम् । सूर्य॑स्य ॥अग्निम् । मन्ये । पितरम् । अग्निम् । आपिम् । अग्निम् । भ्रातरम् । सदम् । इत् । सखायम् । अग्नेः । अनीकम् । बृहतः । सपर्यन् । दिवि । शुक्रम् । यजतम् । सूर्यस्य ॥agnim | manye | pitaram | agnim | āpim | agnim | bhrātaram | sadam | it | sakhāyam | agneḥ | anīkam | bṛhataḥ | saparyan | divi | śukram | yajatam | sūryasya