Sukta 10.7
इमा अग्ने मतयस्तुभ्यं जाता गोभिरश्वैरभि गृणन्ति राधः । यदा ते मर्तो अनु भोगमानड्वसो दधानो मतिभिः सुजात ॥
इ॒मा अ॑ग्ने म॒तय॒स्तुभ्यं॑ जा॒ता गोभि॒रश्वै॑र॒भि गृ॑णन्ति॒ राध॑: । य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ड्वसो॒ दधा॑नो म॒तिभि॑: सुजात ॥
imā́ agne matáyas túbhyaṃ jātā́ góbhiḥ áśvaiḥ abhí gṛ́ṇanti rā́dhaḥ | yadā́ te márto ánu bhógam ānáḍ váso íti dádhāno matíbhiḥ sujāta ||
These thoughts, O Agni, born for thee, praise thy plenitude of luminous riches—rays (cows) and powers of movement (horses). When the mortal follows after thy enjoyment and attains it, bearing within him the ‘Vasu’—the true substance—by rightly-formed inspirations, O well-born Flame.
इ॒माः । अ॒ग्ने॒ । म॒तयः॑ । तुभ्य॑म् । जा॒ताः । गोभिः॑ । अश्वैः॑ । अ॒भि । गृ॒ण॒न्ति॒ । राधः॑ । य॒दा । ते॒ । मर्तः॑ । अनु॑ । भोग॑म् । आन॑ट् । वसो॒ इति॑ । दधा॑नः । म॒तिऽभिः॑ । सु॒ऽजा॒त॒ ॥इमाः । अग्ने । मतयः । तुभ्यम् । जाताः । गोभिः । अश्वैः । अभि । गृणन्ति । राधः । यदा । ते । मर्तः । अनु । भोगम् । आनट् । वसो इति । दधानः । मतिभिः । सुजात ॥imāḥ | agne | matayaḥ | tubhyam | jātāḥ | gobhiḥ | aśvaiḥ | abhi | gṛṇanti | rādhaḥ | yadā | te | martaḥ | anu | bhogam | ānaṭ | vaso iti | dadhānaḥ | mati-bhiḥ | su-jāta