Sukta 10.7
स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर्धेहि यजथाय देव । सचेमहि तव दस्म प्रकेतैरुरुष्या ण उरुभिर्देव शंसैः ॥
स्व॒स्ति नो॑ दि॒वो अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र्धेहि य॒जथा॑य देव । सचे॑महि॒ तव॑ दस्म प्रके॒तैरु॑रु॒ष्या ण॑ उ॒रुभि॑र्देव॒ शंसै॑: ॥
svastí no divó agne pṛthivyā́ viśvā́yur dhehi yajáthāya deva | sacémahi táva dasma prakétair uruṣyā́ ṇa urúbhir deva śáṃsaiḥ ||
O Agni, set for us well-being from heaven and from earth; place in us a life that is universal, for the work of sacrifice, O God. May we move in union with thy wondrous clear discernments; protect us widely with thy wide affirmations of the divine.
स्व॒स्ति । नः॒ । दि॒वः । अ॒ग्ने॒ । पृ॒थि॒व्याः । वि॒श्वऽआ॑युः । धे॒हि॒ । य॒जथा॑य । दे॒व॒ । सचे॑महि । तव॑ । द॒स्म॒ । प्र॒ऽके॒तैः । उ॒रु॒ष्य । नः॒ । उ॒रुऽभिः॑ । दे॒व॒ । शंसैः॑ ॥स्वस्ति । नः । दिवः । अग्ने । पृथिव्याः । विश्वआयुः । धेहि । यजथाय । देव । सचेमहि । तव । दस्म । प्रकेतैः । उरुष्य । नः । उरुभिः । देव । शंसैः ॥svasti | naḥ | divaḥ | agne | pṛthivyāḥ | viśva-āyuḥ | dhehi | yajathāya | deva | sacemahi | tava | dasma | pra-ketaiḥ | uruṣya | naḥ | uru-bhiḥ | deva | śaṃsaiḥ