Sukta 10.67
स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं वि धनसैरदर्दः । ब्रह्मणस्पतिर्वृषभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं व्यानट् ॥
स ईं॑ स॒त्येभि॒: सखि॑भिः शु॒चद्भि॒र्गोधा॑यसं॒ वि ध॑न॒सैर॑दर्दः । ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै॑र्घ॒र्मस्वे॑देभि॒र्द्रवि॑णं॒ व्या॑नट् ॥
sa ī́ṃ satyébhiḥ sákhībhiḥ śucádbhir gódhāyasaṃ ví dhana-sáir adardaḥ | bráhmaṇas pátir vṛ́ṣabhir varā́hair gharmá-svedebhir dráviṇaṃ vyā́naṭ ||
He, with true and shining companions, shattered the ‘go-dhāyasa’ hoarder with the breakers of wealth. Brahmaṇaspati, with bullish boars and heat-sweats of ardor, spread out the treasure-plenitude.
सः । ई॒म् । स॒त्येभिः॑ । सखि॑ऽभिः । शु॒चत्ऽभिः॑ । गोऽधा॑यसम् । वि । ध॒न॒ऽसैः । अ॒द॒र्द॒रित्य॑दर्दः । ब्रह्म॑णः । पतिः॑ । वृष॑ऽभिः । व॒राहैः॑ । घ॒र्मऽस्वे॑देभिः । द्रवि॑णम् । वि । आ॒न॒ट् ॥सः । ईम् । सत्येभिः । सखिभिः । शुचत्भिः । गोधायसम् । वि । धनसैः । अदर्दरित्यदर्दः । ब्रह्मणः । पतिः । वृषभिः । वराहैः । घर्मस्वेदेभिः । द्रविणम् । वि । आनट् ॥saḥ | īm | satyebhiḥ | sakhi-bhiḥ | śucat-bhiḥ | go--dhāyasam | vi | dhana-saiḥ | adardar ity adardaḥ | brahmaṇaḥ | patiḥ | vṛṣa-bhiḥ | varāhaiḥ | gharma-svedebhiḥ | draviṇam | vi | ānaṭ