Sukta 10.67
इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण । स्वेदाञ्जिभिराशिरमिच्छमानोऽरोदयत्पणिमा गा अमुष्णात् ॥
इन्द्रो॑ व॒लं र॑क्षि॒तारं॒ दुघा॑नां क॒रेणे॑व॒ वि च॑कर्ता॒ रवे॑ण । स्वेदा॑ञ्जिभिरा॒शिर॑मि॒च्छमा॒नोऽरो॑दयत्प॒णिमा गा अ॑मुष्णात् ॥
índro valáṃ rakṣitā́raṃ dúghānāṃ karéṇeva ví cakartā ráveṇa | svédāñjibhir ā́śiram icchámāno ’ródayat paṇím ā́ gā́ amuṣṇāt ||
Indra, with a roar, tore apart Vala, the guardian of the yielding riches, as an elephant with its trunk. Seeking the nourishing essence with his sweating energies, he made the Paṇi weep and carried off the Rays.
इन्द्रः॑ । व॒लम् । र॒क्षि॒तार॑म् । दुघा॑नाम् । क॒रेण॑ऽइव । वि । च॒क॒र्त॒ । रवे॑ण । स्वेदा॑ञ्जिऽभिः । आ॒ऽशिर॑म् । इ॒च्छमा॑नः । अरो॑दयत् । प॒णिम् । आ । गाः । अ॒मु॒ष्णा॒त् ॥इन्द्रः । वलम् । रक्षितारम् । दुघानाम् । करेणइव । वि । चकर्त । रवेण । स्वेदाञ्जिभिः । आशिरम् । इच्छमानः । अरोदयत् । पणिम् । आ । गाः । अमुष्णात् ॥indraḥ | valam | rakṣitāram | dughānām | kareṇa-iva | vi | cakarta | raveṇa | svedāñji-bhiḥ | āśiram | icchamānaḥ | arodayat | paṇim | ā | gāḥ | amuṣṇāt