Sukta 10.67
विभिद्या पुरं शयथेमपाचीं निस्त्रीणि साकमुदधेरकृन्तत् । बृहस्पतिरुषसं सूर्यं गामर्कं विवेद स्तनयन्निव द्यौः ॥
वि॒भिद्या॒ पुरं॑ श॒यथे॒मपा॑चीं॒ निस्त्रीणि॑ सा॒कमु॑द॒धेर॑कृन्तत् । बृह॒स्पति॑रु॒षसं॒ सूर्यं॒ गाम॒र्कं वि॑वेद स्त॒नय॑न्निव॒ द्यौः ॥
ví-bhidyā púraṃ śayáthēm apā́cīṃ nís trī́ṇi sākám udadhér akṛntat | bṛ́haspátir uṣásaṃ sū́ryaṃ gā́m arkáṃ viveda stanáyann iva dyáuḥ ||
Breaking open the fortress that lay turned away, they cut free the three together from the ocean-depth. Bṛhaspati discovered Dawn and Sun, the Ray and the flaming Word—like heaven thundering forth.
वि॒ऽभिद्य॑ । पुर॑म् । श॒यथा॑ । ई॒म् । अपा॑चीम् । निः । त्रीणि॑ । सा॒कम् । उ॒द॒ऽधेः । अ॒कृ॒न्त॒त् । बृह॒स्पतिः॑ । उ॒षस॑म् । सूर्य॑म् । गाम् । अ॒र्कम् । वि॒वे॒द॒ । स्त॒नय॑न्ऽइव । द्यौः ॥विभिद्य । पुरम् । शयथा । ईम् । अपाचीम् । निः । त्रीणि । साकम् । उदधेः । अकृन्तत् । बृहस्पतिः । उषसम् । सूर्यम् । गाम् । अर्कम् । विवेद । स्तनयन्इव । द्यौः ॥vi-bhidya | puram | śayathā | īm | apācīm | niḥ | trīṇi | sākam | uda-dheḥ | akṛntat | bṛhaspatiḥ | uṣasam | sūryam | gām | arkam | viveda | stanayan-iva | dyauḥ