Sukta 10.67
अवो द्वाभ्यां पर एकया गा गुहा तिष्ठन्तीरनृतस्य सेतौ । बृहस्पतिस्तमसि ज्योतिरिच्छन्नुदुस्रा आकर्वि हि तिस्र आवः ॥
अ॒वो द्वाभ्यां॑ प॒र एक॑या॒ गा गुहा॒ तिष्ठ॑न्ती॒रनृ॑तस्य॒ सेतौ॑ । बृह॒स्पति॒स्तम॑सि॒ ज्योति॑रि॒च्छन्नुदु॒स्रा आक॒र्वि हि ति॒स्र आव॑: ॥
avó dvā́bhyāṃ párá ékayā gā́ guhā́ tíṣṭhantīr ánṛtasya sétau | bṛ́haspátis támási jyótir icchánn úd usrā́ ā́kar ví hí tíśra ā́var ity ā́vaḥ ||
The Rays were hidden in the cave—beyond two, yet by one (way) accessible—standing at the boundary of falsehood. Bṛhaspati, seeking the Light in the darkness, brought the shining ones upward; he opened out the three coverings.
अ॒वः । द्वाभ्या॑म् । प॒रः । एक॑या । गाः । गुहा॑ । तिष्ठ॑न्तीः । अनृ॑तस्य । सेतौ॑ । बृह॒स्पतिः॑ । तम॑सि । ज्योतिः॑ । इ॒च्छन् । उत् उ॒स्राः । आ । अ॒कः॒ । वि । हि । ति॒श्रः । आव॒रित्यावः॑ ॥अवः । द्वाभ्याम् । परः । एकया । गाः । गुहा । तिष्ठन्तीः । अनृतस्य । सेतौ । बृहस्पतिः । तमसि । ज्योतिः । इच्छन् । उत् उस्राः । आ । अकः । वि । हि । तिश्रः । आवरित्यावः ॥avaḥ | dvābhyām | paraḥ | ekayā | gāḥ | guhā | tiṣṭhantīḥ | anṛtasya | setau | bṛhaspatiḥ | tamasi | jyotiḥ | icchan | ut usrāḥ | ā | akaḥ | vi | hi | tiśraḥ | āvar ity āvaḥ