Sukta 10.67
हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहना व्यस्यन् । बृहस्पतिरभिकनिक्रदद्गा उत प्रास्तौदुच्च विद्वाँ अगायत् ॥
हं॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्य॑न् । बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाँ अ॑गायत् ॥
haṃsáir iva sákhirbhir vā́vadadbhir aśmán-mayāni náhanā vy àsyan | bṛ́haspátir abhí-kanikradad gā́ utá prā́staut úd ca vidvā́n agāyat ||
Like swans with their calling companions, casting off the stone-built bindings, Bṛhaspati cried out to the Rays (cows of light); and the Knower both chanted forth and sang aloud.
हं॒सैःऽइ॑व । सखि॑ऽभिः । वाव॑दत्ऽभिः । अ॒श्म॒न्ऽमया॑नि । नह॑ना । वि॒ऽअस्य॑न् । बृह॒स्पतिः॑ । अ॒भि॒ऽकनि॑क्रदत् । गाः । उ॒त । प्र । अ॒स्तौ॒त् । उत् । च॒ । वि॒द्वान् । अ॒गा॒य॒त् ॥हंसैःइव । सखिभिः । वावदत्भिः । अश्मन्मयानि । नहना । विअस्यन् । बृहस्पतिः । अभिकनिक्रदत् । गाः । उत । प्र । अस्तौत् । उत् । च । विद्वान् । अगायत् ॥haṃsaiḥ-iva | sakhi-bhiḥ | vāvadat-bhiḥ | aśman-mayāni | nahanā | vi-asyan | bṛhaspatiḥ | abhi-kanikradat | gāḥ | uta | pra | astaut | ut | ca | vidvān | agāyat