Sukta 10.67
ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः । विप्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥
ऋ॒तं शंस॑न्त ऋ॒जु दीध्या॑ना दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः । विप्रं॑ प॒दमङ्गि॑रसो॒ दधा॑ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नन्त ॥
ṛtáṃ śáṃsanta ṛjú dīdhyānā divás putrā́so ásurasya vīrā́ḥ | vípraṃ padám aṅgíraso dádhānā yajñásya dhā́ma prathamáṃ mananta ||
Proclaiming the Truth and kindling straight within, the sons of Heaven, the heroes of the Asura, held the inspired station; the Aṅgirases, establishing the sage’s step, conceived the first home of the sacrifice.
ऋ॒तम् । शंस॑न्तः । ऋ॒जु । दीध्या॑नाः । दि॒वः । पु॒त्रासः॑ । असु॑रस्य । वी॒राः । विप्र॑म् । प॒दम् । अङ्गि॑रसः । दधा॑नाः । य॒ज्ञस्य॑ । धाम॑ । प्र॒थ॒मम् । म॒न॒न्त॒ ॥ऋतम् । शंसन्तः । ऋजु । दीध्यानाः । दिवः । पुत्रासः । असुरस्य । वीराः । विप्रम् । पदम् । अङ्गिरसः । दधानाः । यज्ञस्य । धाम । प्रथमम् । मनन्त ॥ṛtam | śaṃsantaḥ | ṛju | dīdhyānāḥ | divaḥ | putrāsaḥ | asurasya | vīrāḥ | vipram | padam | aṅgirasaḥ | dadhānāḥ | yajñasya | dhāma | prathamam | mananta