Sukta 10.67
इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीमविन्दत् । तुरीयं स्विज्जनयद्विश्वजन्योऽयास्य उक्थमिन्द्राय शंसन् ॥
इ॒मां धियं॑ स॒प्तशी॑र्ष्णीं पि॒ता न॑ ऋ॒तप्र॑जातां बृह॒तीम॑विन्दत् । तु॒रीयं॑ स्विज्जनयद्वि॒श्वज॑न्यो॒ऽयास्य॑ उ॒क्थमिन्द्रा॑य॒ शंस॑न् ॥
imā́ṃ dhíyaṃ sapta-śī́rṣṇīṃ pitā́ na ṛtá-prajātāṃ bṛhatī́m avindat | turī́yaṃ svit janayad viśvá-janyo ’yā́sya ukthám indrā́ya śáṃsan ||
This thought-force, seven-headed, born of the Truth and vast in its reach—our Father discovered it. And the fourth (power/measure) the all-begetting Ayāsya brought into birth, proclaiming the hymn for Indra.
इ॒माम् । धिय॑म् । स॒प्तऽशी॑र्ष्णीम् । पि॒ता । नः॒ । ऋ॒तऽप्रजाताम् । बृ॒ह॒तीम् । अ॒वि॒न्द॒त् । तु॒रीय॑म् । स्वि॒त् । ज॒न॒य॒त् । वि॒श्वऽज॑न्यः । अ॒यास्यः॑ । उ॒क्थम् । इन्द्रा॑य । शंस॑न् ॥इमाम् । धियम् । सप्तशीर्ष्णीम् । पिता । नः । ऋतप्रजाताम् । बृहतीम् । अविन्दत् । तुरीयम् । स्वित् । जनयत् । विश्वजन्यः । अयास्यः । उक्थम् । इन्द्राय । शंसन् ॥imām | dhiyam | sapta-śīrṣṇīm | pitā | naḥ | ṛta-prajātām | bṛhatīm | avindat | turīyam | svit | janayat | viśva-janyaḥ | ayāsyaḥ | uktham | indrāya | śaṃsan