Sukta 10.67
यदा वाजमसनद्विश्वरूपमा द्यामरुक्षदुत्तराणि सद्म । बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिरासा ॥
य॒दा वाज॒मस॑नद्वि॒श्वरू॑प॒मा द्यामरु॑क्ष॒दुत्त॑राणि॒ सद्म॑ । बृह॒स्पतिं॒ वृष॑णं व॒र्धय॑न्तो॒ नाना॒ सन्तो॒ बिभ्र॑तो॒ ज्योति॑रा॒सा ॥
yadā́ vā́jam ásanad viśva-rū́pam ā́ dyā́m arukṣad úttarāṇi sádma | bṛ́haspátiṃ vṛ́ṣaṇaṃ vardháyanto nā́nā sántaḥ bíbhrato jyótiḥ āsā́ ||
When he won the plenitude of force that takes all forms, he mounted to heaven, to the higher dwelling-places. Strengthening Brihaspati the Bull-power, though diverse in our workings, we bear one light in our mouths—one luminous utterance.
य॒दा । वाज॑म् । अस॑नत् । वि॒श्वऽरू॑पम् । आ । द्याम् । अरु॑क्षत् । उत्ऽत॑राणि । सद्म॑ । बृह॒स्पति॑म् । वृष॑णम् । व॒र्धय॑न्तः । नाना॑ । सन्तः॑ । बिभ्र॑तः । ज्योतिः॑ । आ॒सा ॥यदा । वाजम् । असनत् । विश्वरूपम् । आ । द्याम् । अरुक्षत् । उत्तराणि । सद्म । बृहस्पतिम् । वृषणम् । वर्धयन्तः । नाना । सन्तः । बिभ्रतः । ज्योतिः । आसा ॥yadā | vājam | asanat | viśva-rūpam | ā | dyām | arukṣat | ut-tarāṇi | sadma | bṛhaspatim | vṛṣaṇam | vardhayantaḥ | nānā | santaḥ | bibhrataḥ | jyotiḥ | āsā