Sukta 10.65
पर्जन्यावाता वृषभा पुरीषिणेन्द्रवायू वरुणो मित्रो अर्यमा । देवाँ आदित्याँ अदितिं हवामहे ये पार्थिवासो दिव्यासो अप्सु ये ॥
प॒र्जन्या॒वाता॑ वृष॒भा पु॑री॒षिणे॑न्द्रवा॒यू वरु॑णो मि॒त्रो अ॑र्य॒मा । दे॒वाँ आ॑दि॒त्याँ अदि॑तिं हवामहे॒ ये पार्थि॑वासो दि॒व्यासो॑ अ॒प्सु ये ॥
parjanyāvātā́ vṛṣabhā́ purīṣíṇendravāyū́ váruṇo mitró aryamā́ | devā́m̐ ādityā́m̐ áditiṃ havāmahe yé pārthivā́so divyā́so apsú yé ||
We call Parjanya and Vāta, the strong bulls who pour the plenitude; we call Indra–Vāyu, Varuṇa, Mitra, Aryaman. We call the Gods, the Ādityas and Aditi—those powers that stand in the earthly being, those that are of the heaven, and those that move in the waters of the inner life.
प॒र्जन्या॒वाता॑ । वृ॒ष॒भा । पु॒री॒षिणा॑ । इ॒न्द्र॒वा॒यू इति॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । दे॒वान् । आ॒दि॒त्यान् । अदि॑तिम् । ह॒वा॒म॒हे॒ । ये । पार्थि॑वासः । दि॒व्यासः॑ । अ॒प्ऽसु । ये ॥पर्जन्यावाता । वृषभा । पुरीषिणा । इन्द्रवायू इति । वरुणः । मित्रः । अर्यमा । देवान् । आदित्यान् । अदितिम् । हवामहे । ये । पार्थिवासः । दिव्यासः । अप्सु । ये ॥parjanyāvātā | vṛṣabhā | purīṣiṇā | indravāyū iti | varuṇaḥ | mitraḥ | aryamā | devān | ādityān | aditim | havāmahe | ye | pārthivāsaḥ | divyāsaḥ | ap-su | ye