Sukta 10.65
त्वष्टारं वायुमृभवो य ओहते दैव्या होतारा उषसं स्वस्तये । बृहस्पतिं वृत्रखादं सुमेधसमिन्द्रियं सोमं धनसा उ ईमहे ॥
त्वष्टा॑रं वा॒युमृ॑भवो॒ य ओह॑ते॒ दैव्या॒ होता॑रा उ॒षसं॑ स्व॒स्तये॑ । बृह॒स्पतिं॑ वृत्रखा॒दं सु॑मे॒धस॑मिन्द्रि॒यं सोमं॑ धन॒सा उ॑ ईमहे ॥
tváṣṭāraṃ vāyúm ṛ́bhavo yá óhate daivyā́ hótārā uṣásaṃ svastáye | bṛ́haspátiṃ vṛtra-khādáṃ su-medhásaṃ indriyáṃ sómaṃ dhanasā́ u īmahe ||
We seek Tvaṣṭṛ the shaper, and Vāyu the life-breath; we seek the Ṛbhus who drive the work forward, and the divine Hotṛs, and Dawn for our well-being. We seek Bṛhaspati, the force that eats away the obstructer, and Soma the power of delight and victory, for the gaining of inner riches.
त्वष्टा॑रम् । वा॒युम् । ऋ॒भ॒वः॒ । यः । ओह॑ते । दैव्या॑ । होता॑रौ । उ॒षस॑म् । स्व॒स्तये॑ । बृह॒स्पति॑म् । वृ॒त्र॒ऽखा॒दम् । सु॒ऽमे॒धस॑म् । इ॒न्द्रि॒यम् । सोम॑म् । ध॒न॒ऽसाः । ऊँ॒ इति॑ । ई॒म॒हे॒ ॥त्वष्टारम् । वायुम् । ऋभवः । यः । ओहते । दैव्या । होतारौ । उषसम् । स्वस्तये । बृहस्पतिम् । वृत्रखादम् । सुमेधसम् । इन्द्रियम् । सोमम् । धनसाः । ऊँ इति । ईमहे ॥tvaṣṭāram | vāyum | ṛbhavaḥ | yaḥ | ohate | daivyā | hotārau | uṣasam | svastaye | bṛhaspatim | vṛtra-khādam | su-medhasam | indriyam | somam | dhana-sāḥ | oṃ iti | īmahe