Sukta 10.65
दिवक्षसो अग्निजिह्वा ऋतावृध ऋतस्य योनिं विमृशन्त आसते । द्यां स्कभित्व्यप आ चक्रुरोजसा यज्ञं जनित्वी तन्वी नि मामृजुः ॥
दि॒वक्ष॑सो अग्निजि॒ह्वा ऋ॑ता॒वृध॑ ऋ॒तस्य॒ योनिं॑ विमृ॒शन्त॑ आसते । द्यां स्क॑भि॒त्व्य१॒॑प आ च॑क्रु॒रोज॑सा य॒ज्ञं ज॑नि॒त्वी त॒न्वी॒३॒॑ नि मा॑मृजुः ॥
divákṣaso agnijihvā́ ṛtā́vṛdha ṛtásya yóniṃ vimṛśánta āsate | dyā́ṃ skabhitvī́ apá ā́ cakrur ójasā yajñáṃ janitvī́ tanvī́ ní māmṛjuḥ ||
The wide-shining ones, flame-tongued, increasers of the Truth, sit touching and discerning the womb of ṛta; having propped up heaven, they by force set the waters in motion; giving birth to the sacrifice, they fashioned it in the body and made it ready.
दि॒वक्ष॑सः । अ॒ग्नि॒ऽजि॒ह्वाः । ऋ॒त॒ऽवृधः॑ । ऋ॒तस्य॑ । योनि॑म् । वि॒ऽमृ॒शन्तः॑ । आ॒स॒ते॒ । द्याम् । स्क॒भि॒त्वी । अ॒पः । आ । च॒क्रुः॒ । ओज॑सा । य॒ज्ञम् । ज॒नि॒त्वी । त॒न्वि॑ । नि । म॒मृजुः ॥दिवक्षसः । अग्निजिह्वाः । ऋतवृधः । ऋतस्य । योनिम् । विमृशन्तः । आसते । द्याम् । स्कभित्वी । अपः । आ । चक्रुः । ओजसा । यज्ञम् । जनित्वी । तन्वि । नि । ममृजुः ॥divakṣasaḥ | agni-jihvāḥ | ṛta-vṛdhaḥ | ṛtasya | yonim | vi-mṛśantaḥ | āsate | dyām | skabhitvī | apaḥ | ā | cakruḥ | ojasā | yajñam | janitvī | tanvi | ni | mamṛjuḥ