Sukta 10.65
या गौर्वर्तनिं पर्येति निष्कृतं पयो दुहाना व्रतनीरवारतः । सा प्रब्रुवाणा वरुणाय दाशुषे देवेभ्यो दाशद्धविषा विवस्वते ॥
या गौर्व॑र्त॒निं प॒र्येति॑ निष्कृ॒तं पयो॒ दुहा॑ना व्रत॒नीर॑वा॒रत॑: । सा प्र॑ब्रुवा॒णा वरु॑णाय दा॒शुषे॑ दे॒वेभ्यो॑ दाशद्ध॒विषा॑ वि॒वस्व॑ते ॥
yā́ gáur vartaníṃ paryéti níṣkṛtaṃ páyo dúhānā vratánīr avā́rataḥ | sā́ prábruvāṇā váruṇāya dāśúṣe devébhyo dāśad dhavíṣā vivásvate ||
She, the Cow, who goes around the appointed course, milking out the milk, the leader of the law, unceasing—she, proclaiming, gives the offering to Varuṇa the giver, and to the gods she gives by oblation to Vivasvat: the radiant one.
या । गौः । व॒र्त॒निम् । प॒रि॒ऽएति॑ । निः॒ऽकृ॒तम् । पयः॑ । दुहा॑ना । व्र॒त॒ऽनीः । अ॒वा॒रतः॑ । सा । प्र॒ऽब्रु॒वा॒णा । वरु॑णाय । दा॒शुषे॑ । दे॒वेभ्यः॑ । दा॒श॒त् । ह॒विषा॑ । वि॒वस्व॑ते ॥या । गौः । वर्तनिम् । परिएति । निःकृतम् । पयः । दुहाना । व्रतनीः । अवारतः । सा । प्रब्रुवाणा । वरुणाय । दाशुषे । देवेभ्यः । दाशत् । हविषा । विवस्वते ॥yā | gauḥ | vartanim | pari-eti | niḥ-kṛtam | payaḥ | duhānā | vrata-nīḥ | avārataḥ | sā | pra-bruvāṇā | varuṇāya | dāśuṣe | devebhyaḥ | dāśat | haviṣā | vivasvate