Sukta 10.65
मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा न प्रयुच्छतः । ययोर्धाम धर्मणा रोचते बृहद्ययोरुभे रोदसी नाधसी वृतौ ॥
मि॒त्राय॑ शिक्ष॒ वरु॑णाय दा॒शुषे॒ या स॒म्राजा॒ मन॑सा॒ न प्र॒युच्छ॑तः । ययो॒र्धाम॒ धर्म॑णा॒ रोच॑ते बृ॒हद्ययो॑रु॒भे रोद॑सी॒ नाध॑सी॒ वृतौ॑ ॥
mitrā́ya śíkṣa váruṇāya dāśúṣe yā́ samrā́jā mánasā ná práyucchataḥ | yayór dhā́ma dhármaṇā rócate bṛhád yayór ubhé ródasī nā́dhasī vṛtaú ||
Grant skill and right attainment for the giver to Mitra and to Varuṇa—those two sovereigns who do not fail in their will; whose wide seat shines by the law, and in whose embrace the two worlds are set firm and nourished.
मि॒त्राय॑ । शि॒क्ष॒ । वरु॑णाय । दा॒शुषे॑ । या । स॒म्ऽराजा॑ । मन॑सा । न । प्र॒ऽयुच्छ॑तः । ययोः॑ । धाम॑ । धर्म॑णा । रोच॑ते । बृ॒हत् । ययोः॑ । उ॒भे इति॑ । रोद॑सी॒ इति॑ । नाध॑सी॒ इति॑ । वृतौ॑ ॥मित्राय । शिक्ष । वरुणाय । दाशुषे । या । सम्राजा । मनसा । न । प्रयुच्छतः । ययोः । धाम । धर्मणा । रोचते । बृहत् । ययोः । उभे इति । रोदसी इति । नाधसी इति । वृतौ ॥mitrāya | śikṣa | varuṇāya | dāśuṣe | yā | sam-rājā | manasā | na | pra-yucchataḥ | yayoḥ | dhāma | dharmaṇā | rocate | bṛhat | yayoḥ | ubhe iti | rodasī | iti | nādhasī iti | vṛtau