Sukta 10.65
स्वर्णरमन्तरिक्षाणि रोचना द्यावाभूमी पृथिवीं स्कम्भुरोजसा । पृक्षा इव महयन्तः सुरातयो देवाः स्तवन्ते मनुषाय सूरयः ॥
स्व॑र्णरम॒न्तरि॑क्षाणि रोच॒ना द्यावा॒भूमी॑ पृथि॒वीं स्क॑म्भु॒रोज॑सा । पृ॒क्षा इ॑व म॒हय॑न्तः सुरा॒तयो॑ दे॒वाः स्त॑वन्ते॒ मनु॑षाय सू॒रय॑: ॥
svàrṇaram antárikṣāṇi rocanā́ dyā́vābhū́mī pṛthivī́ṃ skambhúr ójasā | pṛkṣā́ iva maháyantaḥ surātáyo devā́ḥ stavante mánuṣāya sū́rayaḥ ||
They uphold by force the shining spaces of the midworld, the luminous realms, Heaven-and-Earth and the Earth-foundation; like strong steeds enlarging their power, the gods—good givers—are praised by the seers for man, that the human may grow into the light.
स्वः॑ऽनरम् । अ॒न्तरि॑क्षाणि । रो॒च॒ना । द्यावा॒भूमी॒ इति॑ । पृ॒थि॒वीम् । स्क॒म्भुः॒ । ओज॑सा । पृ॒क्षाःऽइ॑व । म॒हय॑न्तः । सु॒ऽरा॒तयः॑ । दे॒वाः । स्त॒व॒न्ते॒ । मनु॑षाय । सू॒रयः॑ ॥स्वःनरम् । अन्तरिक्षाणि । रोचना । द्यावाभूमी इति । पृथिवीम् । स्कम्भुः । ओजसा । पृक्षाःइव । महयन्तः । सुरातयः । देवाः । स्तवन्ते । मनुषाय । सूरयः ॥svaḥ-naram | antarikṣāṇi | rocanā | dyāvābhūmī iti | pṛthivīm | skambhuḥ | ojasā | pṛkṣāḥ-iva | mahayantaḥ | su-rātayaḥ | devāḥ | stavante | manuṣāya | sūrayaḥ