Sukta 10.65
तेषां हि मह्ना महतामनर्वणां स्तोमाँ इयर्म्यृतज्ञा ऋतावृधाम् । ये अप्सवमर्णवं चित्रराधसस्ते नो रासन्तां महये सुमित्र्याः ॥
तेषां॒ हि म॒ह्ना म॑ह॒ताम॑न॒र्वणां॒ स्तोमाँ॒ इय॑र्म्यृत॒ज्ञा ऋ॑ता॒वृधा॑म् । ये अ॑प्स॒वम॑र्ण॒वं चि॒त्ररा॑धस॒स्ते नो॑ रासन्तां म॒हये॑ सुमि॒त्र्याः ॥
téṣāṃ hí máhnā mahatā́m anarváṇāṃ stómā̃ íyarmy ṛtajñā́ ṛtā́vṛdhām | yé apsavám arṇaváṃ citrárādhasas té no rāsantāṃ maháye sumitryā́ḥ ||
For by the greatness of those great and unerring Truth-knowers, increasers of the Truth, I set forth hymns: they whose gifts are manifold, who move in the oceanic flow—may they grant to us for our wideness the good-friendship (harmonious aid).
तेषा॑म् । हि । म॒ह्ना । मा॒ह॒ताम् । अ॒न॒र्वणा॑म् । स्तोमा॑न् । इय॑र्मि । ऋ॒त॒ऽज्ञाः । ऋ॒त॒ऽवृधा॑म् । ये । अ॒प्स॒वम् । अ॒र्ण॒वम् । चि॒त्रऽरा॑धसः । ते । नः॒ । रा॒स॒न्ता॒म् । म॒हये॑ । सु॒ऽमि॒त्र्याः ॥तेषाम् । हि । मह्ना । माहताम् । अनर्वणाम् । स्तोमान् । इयर्मि । ऋतज्ञाः । ऋतवृधाम् । ये । अप्सवम् । अर्णवम् । चित्रराधसः । ते । नः । रासन्ताम् । महये । सुमित्र्याः ॥teṣām | hi | mahnā | māhatām | anarvaṇām | stomān | iyarmi | ṛta-jñāḥ | ṛta-vṛdhām | ye | apsavam | arṇavam | citra-rādhasaḥ | te | naḥ | rāsantām | mahaye | su-mitryāḥ