Sukta 10.65
इन्द्राग्नी वृत्रहत्येषु सत्पती मिथो हिन्वाना तन्वा समोकसा । अन्तरिक्षं मह्या पप्रुरोजसा सोमो घृतश्रीर्महिमानमीरयन् ॥
इ॒न्द्रा॒ग्नी वृ॑त्र॒हत्ये॑षु॒ सत्प॑ती मि॒थो हि॑न्वा॒ना त॒न्वा॒३॒॑ समो॑कसा । अ॒न्तरि॑क्षं॒ मह्या प॑प्रु॒रोज॑सा॒ सोमो॑ घृत॒श्रीर्म॑हि॒मान॑मी॒रय॑न् ॥
indrāgnī vṛtrahátyeṣu sátpatī mithó hinvānā́ tanvā́ samókasā | antárikṣaṃ mahyā́ paprúr ójasā sómo ghṛtaśrī́r mahimā́nam ī́rayan ||
Indra and Agni, true lords in the slayings of the Coverer, urging each other on and dwelling together in one home of being; by their force they have filled the wide mid-world, while Soma, radiant with clarified delight, raises their greatness.
इ॒न्द्रा॒ग्नी इति॑ । वृ॒त्र॒ऽहत्ये॑षु । सत्प॑ती॒ इति॒ सत्ऽप॑ती । मि॒थः । हि॒न्वा॒ना । त॒न्वा॑ । सम्ऽओ॑कसा । अ॒न्तरि॑क्षम् । महि॑ । आ । प॒प्रुः॒ । ओज॑सा । सोमः॑ । घृ॒त॒ऽश्रीः । म॒हि॒मान॑म् । ई॒रय॑न् ॥इन्द्राग्नी इति । वृत्रहत्येषु । सत्पती इति सत्पती । मिथः । हिन्वाना । तन्वा । सम्ओकसा । अन्तरिक्षम् । महि । आ । पप्रुः । ओजसा । सोमः । घृतश्रीः । महिमानम् । ईरयन् ॥indrāgnī iti | vṛtra-hatyeṣu | satpatī itisat-patī | mithaḥ | hinvānā | tanvā | sam-okasā | antarikṣam | mahi | ā | papruḥ | ojasā | somaḥ | ghṛta-śrīḥ | mahimānam | īrayan