Sukta 10.65
अग्निरिन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वती सजोषसः । आदित्या विष्णुर्मरुतः स्वर्बृहत्सोमो रुद्रो अदितिर्ब्रह्मणस्पतिः ॥
अ॒ग्निरिन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा वा॒युः पू॒षा सर॑स्वती स॒जोष॑सः । आ॒दि॒त्या विष्णु॑र्म॒रुत॒: स्व॑र्बृ॒हत्सोमो॑ रु॒द्रो अदि॑ति॒र्ब्रह्म॑ण॒स्पति॑: ॥
agnír índro váruṇo mitró aryamā́ vāyúḥ pūṣā́ sárasvatī sajóṣasaḥ | ādityā́ víṣṇur marútaḥ svàr bृहát sómo rudró áditir bráhmaṇas pátiḥ ||
Agni, Indra, Varuṇa, Mitra, Aryaman, Vāyu, Pūṣan, Sarasvatī in one accord; the Ādityas, Viṣṇu, the Maruts, the wide Vast (Svar, Bṛhat), Soma, Rudra, Aditi, and Brahmaṇaspati—may these powers together uphold and perfect our inner sacrifice.
अ॒ग्निः । इन्द्रः॑ । वरु॑णः । मि॒त्रः । आ॒र्य॒मा । वा॒युः । पू॒षा । सर॑स्वती । स॒ऽजोष॑सः । आ॒दि॒त्याः । विष्णुः॑ । म॒रुतः॑ । स्वः॑ । बृ॒हत् । सोमः॑ । रु॒द्रः । अदि॑तिः । ब्रह्म॑णः । पतिः॑ ॥अग्निः । इन्द्रः । वरुणः । मित्रः । आर्यमा । वायुः । पूषा । सरस्वती । सजोषसः । आदित्याः । विष्णुः । मरुतः । स्वः । बृहत् । सोमः । रुद्रः । अदितिः । ब्रह्मणः । पतिः ॥agniḥ | indraḥ | varuṇaḥ | mitraḥ | āryamā | vāyuḥ | pūṣā | sarasvatī | sa-joṣasaḥ | ādityāḥ | viṣṇuḥ | marutaḥ | svaḥ | bṛhat | somaḥ | rudraḥ | aditiḥ | brahmaṇaḥ | patiḥ