Sukta 10.65
विश्वे देवाः सह धीभिः पुरंध्या मनोर्यजत्रा अमृता ऋतज्ञाः । रातिषाचो अभिषाचः स्वर्विदः स्वर्गिरो ब्रह्म सूक्तं जुषेरत ॥
विश्वे॑ दे॒वाः स॒ह धी॒भिः पुरं॑ध्या॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः । रा॒ति॒षाचो॑ अभि॒षाच॑: स्व॒र्विद॒: स्व१॒॑र्गिरो॒ ब्रह्म॑ सू॒क्तं जु॑षेरत ॥
víśve devā́ḥ sahá dhībhíḥ puráṃdhyā mānór yájat rā amṛ́tā ṛta-jñā́ḥ | rā́ti-sāco abhi-sā́caḥ svar-vídaḥ svàr-giro bráhma sū́ktaṃ juṣerata ||
May all the Gods, with illumined thoughts and fullness of discernment—adorable, immortal, knowers of ṛta—accept this well-spoken hymn, this creative word that bears the sun-world. May they come with their gifts and their supporting forces, finding for us the light of the higher heaven.
विश्वे॑ । दे॒वाः । स॒ह । धी॒भिः । पुर॑म्ऽध्या । मनोः॑ । यज॑त्राः । अ॒मृताः॑ । ऋ॒त॒ऽज्ञाः । रा॒ति॒ऽसाचः॑ । अ॒भि॒ऽसाचः॑ । स्वः॒ऽविदः॑ स्वः॑ । गिरः॑ । ब्रह्म॑ । सु॒ऽउ॒क्तम् । जु॒षे॒र॒त॒ ॥विश्वे । देवाः । सह । धीभिः । पुरम्ध्या । मनोः । यजत्राः । अमृताः । ऋतज्ञाः । रातिसाचः । अभिसाचः । स्वःविदः स्वः । गिरः । ब्रह्म । सुउक्तम् । जुषेरत ॥viśve | devāḥ | saha | dhībhiḥ | puram-dhyā | manoḥ | yajatrāḥ | amṛtāḥ | ṛta-jñāḥ | rāti-sācaḥ | abhi-sācaḥ | svaḥ-vidaḥ svaḥ | giraḥ | brahma | su-uktam | juṣerata