Sukta 10.65
पावीरवी तन्यतुरेकपादजो दिवो धर्ता सिन्धुरापः समुद्रियः । विश्वे देवासः शृणवन्वचांसि मे सरस्वती सह धीभिः पुरंध्या ॥
पावी॑रवी तन्य॒तुरेक॑पाद॒जो दि॒वो ध॒र्ता सिन्धु॒राप॑: समु॒द्रिय॑: । विश्वे॑ दे॒वास॑: शृणव॒न्वचां॑सि मे॒ सर॑स्वती स॒ह धी॒भिः पुरं॑ध्या ॥
pāvī́ravī tanyatúr éka-pād ajó divó dhartā́ síndhur ā́paḥ samudríyaḥ | víśve devā́saḥ śṛṇaván vacā́ṃsi me sá rasvatī sahá dhībhíḥ puráṃdhyā ||
Pāvīravī, the thunder-force; Ekapād, the one-footed power; Aja, the unborn; the upholder of heaven; the Sindhu and the oceanic Waters—may all these divine powers hear my words. May Sarasvatī too, with her illumined thoughts and plenary discernment, be with us.
पावी॑रवी । त॒न्य॒तुः । एक॑ऽपात् । अ॒जः । दि॒वः । ध॒र्ता । सिन्धुः॑ । आपः॑ । स॒मु॒द्रियः॑ । विश्वे॑ । दे॒वासः॑ । शृ॒ण॒व॒न् । वचां॑सि । मे॒ । सर॑स्वती । स॒ह । धी॒भिः । पुर॑म्ऽध्या ॥पावीरवी । तन्यतुः । एकपात् । अजः । दिवः । धर्ता । सिन्धुः । आपः । समुद्रियः । विश्वे । देवासः । शृणवन् । वचांसि । मे । सरस्वती । सह । धीभिः । पुरम्ध्या ॥pāvīravī | tanyatuḥ | eka-pāt | ajaḥ | divaḥ | dhartā | sindhuḥ | āpaḥ | samudriyaḥ | viśve | devāsaḥ | śṛṇavan | vacāṃsi | me | sarasvatī | saha | dhībhiḥ | puram-dhyā