Sukta 10.65
भुज्युमंहसः पिपृथो निरश्विना श्यावं पुत्रं वध्रिमत्या अजिन्वतम् । कमद्युवं विमदायोहथुर्युवं विष्णाप्वं विश्वकायाव सृजथः ॥
भु॒ज्युमंह॑सः पिपृथो॒ निर॑श्विना॒ श्यावं॑ पु॒त्रं व॑ध्रिम॒त्या अ॑जिन्वतम् । क॒म॒द्युवं॑ विम॒दायो॑हथुर्यु॒वं वि॑ष्णा॒प्वं१॒॑ विश्व॑का॒याव॑ सृजथः ॥
bhujyúm áṃhasaḥ pipṛthó nír aśvinā śyāváṃ putráṃ vadhri-matyā́ ájinvatam | kama-dyúvaṃ vi-madā́yohathur yuváṃ viṣṇā́pvaṃ víśvakāyā́va sṛjathaḥ ||
O Aśvins, you bore Bhujyu out of distress; you quickened Śyāva, the son of Vadhri-matī. You carried Kamadyu for Vimadā; and you set Viṣṇāpū in motion for Viśvakāya. Thus you are the rescuing twin-powers that lift the soul from peril and restore its right movement.
भु॒ज्युम् । अंह॑सः । पि॒पृ॒थः॒ । निः । अ॒श्वि॒ना॒ । श्याव॑म् । पु॒त्रम् । व॒ध्रि॒ऽम॒त्याः । अ॒जि॒न्व॒त॒म् । क॒म॒ऽद्युव॑म् । वि॒ऽम॒दाय । ऊ॒ह॒थुः॒ । यु॒वम् । वि॒ष्णा॒प्व॑म् । विश्व॑काय । अव॑ । सृ॒ज॒थः॒ ॥भुज्युम् । अंहसः । पिपृथः । निः । अश्विना । श्यावम् । पुत्रम् । वध्रिमत्याः । अजिन्वतम् । कमद्युवम् । विमदाय । ऊहथुः । युवम् । विष्णाप्वम् । विश्वकाय । अव । सृजथः ॥bhujyum | aṃhasaḥ | pipṛthaḥ | niḥ | aśvinā | śyāvam | putram | vadhri-matyāḥ | ajinvatam | kama-dyuvam | vi-madāya | ūhathuḥ | yuvam | viṣṇāpvam | viśvakāya | ava | sṛjathaḥ