Sukta 10.64
सरस्वती सरयुः सिन्धुरूर्मिभिर्महो महीरवसा यन्तु वक्षणीः । देवीरापो मातरः सूदयित्न्वो घृतवत्पयो मधुमन्नो अर्चत ॥
सर॑स्वती स॒रयु॒: सिन्धु॑रू॒र्मिभि॑र्म॒हो म॒हीरव॒सा य॑न्तु॒ वक्ष॑णीः । दे॒वीरापो॑ मा॒तर॑: सूदयि॒त्न्वो॑ घृ॒तव॒त्पयो॒ मधु॑मन्नो अर्चत ॥
sárasvatī saráyuḥ síndhur ūrmíbhir mahó mahī́r avasā́ yantu vákṣaṇīḥ | devī́r ā́po mātáraḥ sūdayitnvó ghṛtávat páyo mádhumanno no arcata ||
May Sarasvatī, Sarayu, and Sindhu with their waves—vast and mighty—come to us with their fostering help, bearing the nourishing flow. O divine Waters, Mothers, impelling our growth, praise us (fill us with light) with ghee-rich and honey-sweet milk of delight.
सर॑स्वती । स॒रयुः॑ । सिन्धुः॑ । ऊ॒र्मिऽभिः॑ । म॒हः । म॒हीः । अव॑सा । य॒न्तु॒ । वक्ष॑णीः । दे॒वीः । आपः॑ । मा॒तरः॑ । सू॒द॒यि॒त्न्वः॑ । घृ॒तऽव॑त् । पयः॑ । मधु॑ऽमत् । नः॒ । अ॒र्च॒त॒ ॥सरस्वती । सरयुः । सिन्धुः । ऊर्मिभिः । महः । महीः । अवसा । यन्तु । वक्षणीः । देवीः । आपः । मातरः । सूदयित्न्वः । घृतवत् । पयः । मधुमत् । नः । अर्चत ॥sarasvatī | sarayuḥ | sindhuḥ | ūrmi-bhiḥ | mahaḥ | mahīḥ | avasā | yantu | vakṣaṇīḥ | devīḥ | āpaḥ | mātaraḥ | sūdayitnvaḥ | ghṛta-vat | payaḥ | madhu-mat | naḥ | arcata