Sukta 10.64
उत माता बृहद्दिवा शृणोतु नस्त्वष्टा देवेभिर्जनिभिः पिता वचः । ऋभुक्षा वाजो रथस्पतिर्भगो रण्वः शंसः शशमानस्य पातु नः ॥
उ॒त मा॒ता बृ॑हद्दि॒वा शृ॑णोतु न॒स्त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः पि॒ता वच॑: । ऋ॒भु॒क्षा वाजो॒ रथ॒स्पति॒र्भगो॑ र॒ण्वः शंस॑: शशमा॒नस्य॑ पातु नः ॥
utá mātā́ bṛhad-divā́ śṛṇotu nas tváṣṭā devebhír janíbhiḥ pitā́ vácaḥ | ṛbhukṣā́ vājó ratháspatir bhágo raṇvó śáṁsaḥ śaśamāná sya pātu naḥ ||
And may the Mother of the vast heaven hear us; may Tvaṣṭṛ, the Father with the god-born ones, receive our word. May Ṛbhukṣan, Vāja, Ratha-spati, Bhaga—delighting—guard for us the affirmation of one who strives and grows in mastery.
उ॒त । मा॒ता । बृ॒ह॒त्ऽदि॒वा । शृ॒णो॒तु॒ । नः॒ । त्वष्टा॑ । दे॒वेभिः॑ । जनि॑ऽभिः । पिता॑ । वचः॑ । ऋ॒भु॒क्षाः । वाजः॑ । रथः॒ऽपतिः॑ । भगः॑ । र॒ण्वः । शंसः॑ । श॒श॒मा॒नस्य॑ । पा॒तु॒ । नः॒ ॥उत । माता । बृहत्दिवा । शृणोतु । नः । त्वष्टा । देवेभिः । जनिभिः । पिता । वचः । ऋभुक्षाः । वाजः । रथःपतिः । भगः । रण्वः । शंसः । शशमानस्य । पातु । नः ॥uta | mātā | bṛhat-divā | śṛṇotu | naḥ | tvaṣṭā | devebhiḥ | jani-bhiḥ | pitā | vacaḥ | ṛbhukṣāḥ | vājaḥ | rathaḥ-patiḥ | bhagaḥ | raṇvaḥ | śaṃsaḥ | śaśamānasya | pātu | naḥ