Sukta 10.64
त्रिः सप्त सस्रा नद्यो महीरपो वनस्पतीन्पर्वताँ अग्निमूतये । कृशानुमस्तॄन्तिष्यं सधस्थ आ रुद्रं रुद्रेषु रुद्रियं हवामहे ॥
त्रिः स॒प्त स॒स्रा न॒द्यो॑ म॒हीर॒पो वन॒स्पती॒न्पर्व॑ताँ अ॒ग्निमू॒तये॑ । कृ॒शानु॒मस्तॄ॑न्ति॒ष्यं॑ स॒धस्थ॒ आ रु॒द्रं रु॒द्रेषु॑ रु॒द्रियं॑ हवामहे ॥
tríḥ saptá sasrā́ nádyo mahī́r apó vánaspatīn párvatā̃ agním ūtáye | kṛśā́num astṛ́ṝn tiṣyáṁ sadhástha ā́ rudráṁ rudréṣu rudríyaṁ havāmahe ||
We call the thrice-seven flowing rivers, the vast waters, the lords of the growing life, the mountains, and Agni for our protection. We invoke Kṛśānu who spreads, and Tiṣya in the common seat; and we call Rudra, the Rudrian power among the Rudras, to awaken the fierce-healing force in us.
त्रिः । स॒प्त । स॒स्राः । न॒द्यः॑ । म॒हीः । अ॒पः । वन॒स्पती॒न् । पर्व॑तान् । अ॒ग्निम् । ऊ॒तये॑ । कृ॒शानु॑म् । अस्तॄ॑न् । ति॒ष्य॑म् । स॒धऽस्थे॑ । आ । रु॒द्रम् । रु॒द्रेषु॑ । रु॒द्रिय॑म् । ह॒वा॒म॒हे॒ ॥त्रिः । सप्त । सस्राः । नद्यः । महीः । अपः । वनस्पतीन् । पर्वतान् । अग्निम् । ऊतये । कृशानुम् । अस्तॄन् । तिष्यम् । सधस्थे । आ । रुद्रम् । रुद्रेषु । रुद्रियम् । हवामहे ॥triḥ | sapta | sasrāḥ | nadyaḥ | mahīḥ | apaḥ | vanaspatīn | parvatān | agnim | ūtaye | kṛśānum | astṛṝn | tiṣyam | sadha-sthe | ā | rudram | rudreṣu | rudriyam | havāmahe