Sukta 10.64
प्र वो वायुं रथयुजं पुरंधिं स्तोमैः कृणुध्वं सख्याय पूषणम् । ते हि देवस्य सवितुः सवीमनि क्रतुं सचन्ते सचितः सचेतसः ॥
प्र वो॑ वा॒युं र॑थ॒युजं॒ पुरं॑धिं॒ स्तोमै॑: कृणुध्वं स॒ख्याय॑ पू॒षण॑म् । ते हि दे॒वस्य॑ सवि॒तुः सवी॑मनि॒ क्रतुं॒ सच॑न्ते स॒चित॒: सचे॑तसः ॥
prá vo vāyúṁ ratha-yújaṁ púraṁdhiṁ stómaiḥ kṛṇudhvam sakhyā́ya pūṣáṇam | té hí devásya savitúḥ savī́mani krátum sácante sa-cítaḥ sá-cetasaḥ ||
Bring forward by your hymns Vāyu yoked to the chariot, and Pūṣan for comradeship, the power of plenitude who fills the being. For they, conscious and awakened, move with the will of Savitṛ in his impelling course, and join themselves to the purposeful intelligence.
प्र । वः॒ । वा॒युम् । र॒थ॒ऽयुज॑म् । पुर॑म्ऽधिम् । स्तोमैः॑ । कृ॒णु॒ध्व॒म् । स॒ख्याय॑ । पू॒षण॑म् । ते । हि । दे॒वस्य॑ । स॒वि॒तुः । सवी॑मनि । क्रतु॑म् । सच॑न्ते । स॒ऽचितः॑ । सऽचे॑तसः ॥प्र । वः । वायुम् । रथयुजम् । पुरम्धिम् । स्तोमैः । कृणुध्वम् । सख्याय । पूषणम् । ते । हि । देवस्य । सवितुः । सवीमनि । क्रतुम् । सचन्ते । सचितः । सचेतसः ॥pra | vaḥ | vāyum | ratha-yujam | puram-dhim | stomaiḥ | kṛṇudhvam | sakhyāya | pūṣaṇam | te | hi | devasya | savituḥ | savīmani | kratum | sacante | sa-citaḥ | sa-cetasaḥ