Sukta 10.64
ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः । सहस्रसा मेधसाताविव त्मना महो ये धनं समिथेषु जभ्रिरे ॥
ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनो॑ मि॒तद्र॑वः । स॒ह॒स्र॒सा मे॒धसा॑ताविव॒ त्मना॑ म॒हो ये धनं॑ समि॒थेषु॑ जभ्रि॒रे ॥
té no árvanto havanaśrutó hávaṁ víśve śṛṇvantu vājíno mita-dravaḥ | sahasra-sā́ medhasā́tāv iva tmánā mahó yé dhánaṁ sam-ithéṣu jabhriré ||
May all those ardent steeds of the divine movement—hearers of our call—listen to our invocation, the force-filled ones of measured swiftness. Those great powers who win a thousandfold by their own inborn being, who have brought the treasure in the clashes within us, may they come to our aid.
ते । नः॒ । अर्व॑न्तः । ह॒व॒न॒ऽश्रुतः॑ । हव॑म् । विश्वे॑ । शृ॒ण्व॒न्तु॒ । वा॒जिनः॑ । मि॒तऽद्र॑वः । स॒ह॒स्र॒ऽसाः । मे॒धसा॑तौऽइव । त्मना॑ । म॒हः । ये । धन॑म् । स॒म्ऽइ॒थेषु॑ । ज॒भ्रि॒रे ॥ते । नः । अर्वन्तः । हवनश्रुतः । हवम् । विश्वे । शृण्वन्तु । वाजिनः । मितद्रवः । सहस्रसाः । मेधसातौइव । त्मना । महः । ये । धनम् । सम्इथेषु । जभ्रिरे ॥te | naḥ | arvantaḥ | havana-śrutaḥ | havam | viśve | śṛṇvantu | vājinaḥ | mi ta-dravaḥ | sahasra-sāḥ | medhasātau-iva | tmanā | mahaḥ | ye | dhanam | sam-itheṣu | jabhrire