Sukta 10.64
क्रतूयन्ति क्रतवो हृत्सु धीतयो वेनन्ति वेनाः पतयन्त्या दिशः । न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधि कामा अयंसत ॥
क्र॒तू॒यन्ति॒ क्रत॑वो हृ॒त्सु धी॒तयो॒ वेन॑न्ति वे॒नाः प॒तय॒न्त्या दिश॑: । न म॑र्डि॒ता वि॑द्यते अ॒न्य ए॑भ्यो दे॒वेषु॑ मे॒ अधि॒ कामा॑ अयंसत ॥
kratūyánti krátavo hṛtsú dhītáyo vénanti venā́ḥ patáyanty ā́ díśaḥ | ná marḍitā́ vidyate anyá ebhyo devéṣu me ádhi kā́mā ayaṃsata ||
The wills of works move in season within the heart; the inspired thoughts long and the desirings fly out to the quarters. No other giver of gladness is found beyond these: upon the gods my aspirations have been set.
ऋ॒तु॒ऽयन्ति॑ । क्रत॑वः । हृ॒त्ऽसु । धी॒तयः॑ । वेन॑न्ति । वे॒नाः । प॒तय॑न्ति । आ । दिशः॑ । न । म॒र्डि॒ता । वि॒द्य॒ते॒ । अ॒न्यः । ए॒भ्यः॒ । दे॒वेषु॑ । मे॒ । अधि॑ । कामाः॑ । अ॒यं॒स॒त॒ ॥ऋतुयन्ति । क्रतवः । हृत्सु । धीतयः । वेनन्ति । वेनाः । पतयन्ति । आ । दिशः । न । मर्डिता । विद्यते । अन्यः । एभ्यः । देवेषु । मे । अधि । कामाः । अयंसत ॥ṛtu-yanti | kratavaḥ | hṛt-su | dhītayaḥ | venanti | venāḥ | patayanti | ā | diśaḥ | na | marḍitā | vidyate | anyaḥ | ebhyaḥ | deveṣu | me | adhi | kāmāḥ | ayaṃsata