Sukta 10.64
कथा देवानां कतमस्य यामनि सुमन्तु नाम शृण्वतां मनामहे । को मृळाति कतमो नो मयस्करत्कतम ऊती अभ्या ववर्तति ॥
क॒था दे॒वानां॑ कत॒मस्य॒ याम॑नि सु॒मन्तु॒ नाम॑ शृण्व॒तां म॑नामहे । को मृ॑ळाति कत॒मो नो॒ मय॑स्करत्कत॒म ऊ॒ती अ॒भ्या व॑वर्तति ॥
kathā́ devā́nāṃ katamásya yā́mani sumántu nā́ma śṛṇvatā́ṃ manāmahe | kó mṛḷāti katamó no máyaskarat katamá ūtī́ abhy ā́ vavartati ||
How, and in which movement of the gods, may we hold in mind the name ‘Suman-tu’—the one who truly listens? Who grants us gladness, who makes for us a delight of being; which Power turns toward us with its help?
क॒था । दे॒वाना॑म् । क॒त॒मस्य॑ । याम॑नि । सु॒ऽमन्तु॑ । नाम॑ । शृ॒ण्व॒ताम् । म॒ना॒म॒हे॒ । कः । मृ॒ळा॒ति॒ । क॒त॒मः । नः॒ । मयः॑ । क॒र॒त् । क॒त॒मः । ऊ॒ती । अ॒भि । आ । व॒व॒र्त॒ति॒ ॥कथा । देवानाम् । कतमस्य । यामनि । सुमन्तु । नाम । शृण्वताम् । मनामहे । कः । मृळाति । कतमः । नः । मयः । करत् । कतमः । ऊती । अभि । आ । ववर्तति ॥kathā | devānām | katamasya | yāmani | su-mantu | nāma | śṛṇvatām | manāmahe | kaḥ | mṛḷāti | katamaḥ | naḥ | mayaḥ | karat | katamaḥ | ūtī | abhi | ā | vavartati