Sukta 10.64
एवा कविस्तुवीरवाँ ऋतज्ञा द्रविणस्युर्द्रविणसश्चकानः । उक्थेभिरत्र मतिभिश्च विप्रोऽपीपयद्गयो दिव्यानि जन्म ॥
ए॒वा क॒विस्तु॑वी॒रवाँ॑ ऋत॒ज्ञा द्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः । उ॒क्थेभि॒रत्र॑ म॒तिभि॑श्च॒ विप्रोऽपी॑पय॒द्गयो॑ दि॒व्यानि॒ जन्म॑ ॥
evā kavís tuvīrávā̃ ṛtajñā draviṇasyúr dráviṇasaś cakānáḥ | ukthebhír átra matíbhiś ca vípro 'pīpayad gáyo divyā́ni jánma ||
Thus the seer, mighty-voiced and knower of the Truth-Order, desiring the plenitude, rejoicing in the treasures—here by hymns and by inspired thoughts the illumined one fostered the divine births of the Life-Power (gayaḥ).
ए॒व । क॒विः । तु॒वि॒ऽरवा॑न् । ऋ॒त॒ऽज्ञाः । द्र॒वि॒ण॒स्युः । द्रवि॑णसः । च॒का॒नः । उ॒क्थेभिः॑ । अत्र॑ । म॒तिऽभिः॑ । च॒ । विप्रः॑ । अपी॑पयत् । गयः॑ । दि॒व्यानि॑ । जन्म॑ ॥एव । कविः । तुविरवान् । ऋतज्ञाः । द्रविणस्युः । द्रविणसः । चकानः । उक्थेभिः । अत्र । मतिभिः । च । विप्रः । अपीपयत् । गयः । दिव्यानि । जन्म ॥eva | kaviḥ | tuvi-ravān | ṛta-jñāḥ | draviṇasyuḥ | draviṇasaḥ | cakānaḥ | ukthebhiḥ | atra | mati-bhiḥ | ca | vipraḥ | apīpayat | gayaḥ | divyāni | janma