Sukta 10.64
ते हि द्यावापृथिवी मातरा मही देवी देवाञ्जन्मना यज्ञिये इतः । उभे बिभृत उभयं भरीमभिः पुरू रेतांसि पितृभिश्च सिञ्चतः ॥
ते हि द्यावा॑पृथि॒वी मा॒तरा॑ म॒ही दे॒वी दे॒वाञ्जन्म॑ना य॒ज्ञिये॑ इ॒तः । उ॒भे बि॑भृत उ॒भयं॒ भरी॑मभिः पु॒रू रेतां॑सि पि॒तृभि॑श्च सिञ्चतः ॥
té hí dyā́vāpṛthivī́ mātárā mahī́ devī́ devā́ñ jánmanā yajñíye itáḥ | ubhé bibhṛta ubháyaṁ bharī́mabhiḥ purū́ retā́ṃsi pitṛ́bhiś ca siñcataḥ ||
For Heaven and Earth are indeed the two great Mothers, divine, who by birth bring forth the gods and are fit for sacrifice here. Both uphold both worlds with their bearing powers, and they pour out many seeds of becoming together with the Fathers—so that the lines of life and consciousness may continue and widen.
ते । हि । द्यावा॑पृथि॒वी इति॑ । मा॒तरा॑ । म॒ही । दे॒वी । दे॒वान् । जन्म॑ना । य॒ज्ञिये॒ इति॑ । इ॒तः । उ॒भे इति॑ । बि॒भृ॒तः॒ । उ॒भय॑म् । भरी॑मऽभिः । पु॒रु । रेतां॑सि । पि॒तृऽभिः॑ । च॒ । सि॒ञ्च॒तः॒ ॥ते । हि । द्यावापृथिवी इति । मातरा । मही । देवी । देवान् । जन्मना । यज्ञिये इति । इतः । उभे इति । बिभृतः । उभयम् । भरीमभिः । पुरु । रेतांसि । पितृभिः । च । सिञ्चतः ॥te | hi | dyāvāpṛthivī iti | mātarā | mahī | devī | devān | janmanā | yajñiyeiti | itaḥ | ubhe iti | bibhṛtaḥ | ubhayam | bharīma-bhiḥ | puru | retāṃsi | pitṛ-bhiḥ | ca | siñcataḥ