Sukta 10.64
कुविदङ्ग प्रति यथा चिदस्य नः सजात्यस्य मरुतो बुबोधथ । नाभा यत्र प्रथमं संनसामहे तत्र जामित्वमदितिर्दधातु नः ॥
कु॒विद॒ङ्ग प्रति॒ यथा॑ चिद॒स्य न॑: सजा॒त्य॑स्य मरुतो॒ बुबो॑धथ । नाभा॒ यत्र॑ प्रथ॒मं सं॒नसा॑महे॒ तत्र॑ जामि॒त्वमदि॑तिर्दधातु नः ॥
kuvíd aṅgá práti yáthā cid asyá naḥ sa-jā́tyasya maruto bुबódhatha | nā́bhā yátra prathamáṁ saṃnásāmahe tátra jā́mi-tvam áditi r dadhātu naḥ ||
Will you, O Maruts, take notice of us as you once did—of us who are of one kindred with you? At the navel where first we are joined together, there may Aditi establish for us the true kinship, the oneness of origin in the Infinite.
कु॒वित् । अ॒ङ्ग । प्रति॑ । यथा॑ । चि॒त् । अ॒स्य । नः॒ । स॒ऽजा॒त्य॑स्य । म॒रु॒तः॒ । बुबो॑धथ । नाभा॑ । यत्र॑ । प्र॒थ॒मम् । स॒म्ऽनसा॑महे । तत्र॑ । जा॒मि॒ऽत्वम् । अदि॑तिः । द॒धा॒तु॒ । नः॒ ॥कुवित् । अङ्ग । प्रति । यथा । चित् । अस्य । नः । सजात्यस्य । मरुतः । बुबोधथ । नाभा । यत्र । प्रथमम् । सम्नसामहे । तत्र । जामित्वम् । अदितिः । दधातु । नः ॥kuvit | aṅga | prati | yathā | cit | asya | naḥ | sa-jātyasya | marutaḥ | bubodhatha | nābhā | yatra | prathamam | sam-nasāmahe | tatra | jāmi-tvam | aditiḥ | dadhātu | naḥ