Sukta 10.64
रण्वः संदृष्टौ पितुमाँ इव क्षयो भद्रा रुद्राणां मरुतामुपस्तुतिः । गोभिः ष्याम यशसो जनेष्वा सदा देवास इळया सचेमहि ॥
र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयो॑ भ॒द्रा रु॒द्राणां॑ म॒रुता॒मुप॑स्तुतिः । गोभि॑: ष्याम य॒शसो॒ जने॒ष्वा सदा॑ देवास॒ इळ॑या सचेमहि ॥
raṇvó saṃdṛ́ṣṭau pitumā́m̐ iva kṣáyo bhadrā́ rudrā́ṇāṁ marútām úpastutiḥ | góbhīḥ ṣyāma yaśáso jáneṣv ā́ sadā devāsa íḷayā sacemahi ||
Delightful is the dwelling when seen together, like a home rich in nourishment; auspicious is the praise offered to the Rudras, the Maruts. May we be with rays of light and knowledge, famed among peoples; and always, O gods, may we move in union with the fostering flow (Iḷā).
र॒ण्वः । सम्ऽदृ॑ष्टौ । पि॒तु॒मान्ऽइ॑व । क्षयः॑ । भ॒द्रा । रु॒द्राणा॑म् । म॒रुता॑म् । उप॑ऽस्तुतिः । गोभिः॑ । स्या॒म॒ । य॒शसः॑ । जने॑षु । आ । सदा॑ । दे॒वा॒सः॒ । इळ॑या । स॒चे॒म॒हि॒ ॥रण्वः । सम्दृष्टौ । पितुमान्इव । क्षयः । भद्रा । रुद्राणाम् । मरुताम् । उपस्तुतिः । गोभिः । स्याम । यशसः । जनेषु । आ । सदा । देवासः । इळया । सचेमहि ॥raṇvaḥ | sam-dṛṣṭau | pitumān-iva | kṣayaḥ | bhadrā | rudrāṇām | marutām | upa-stutiḥ | gobhiḥ | syāma | yaśasaḥ | janeṣu | ā | sadā | devāsaḥ | iḷayā | sacemahi