Sukta 10.63
भरेष्विन्द्रं सुहवं हवामहेंऽहोमुचं सुकृतं दैव्यं जनम् । अग्निं मित्रं वरुणं सातये भगं द्यावापृथिवी मरुतः स्वस्तये ॥
भरे॒ष्विन्द्रं॑ सु॒हवं॑ हवामहेंऽहो॒मुचं॑ सु॒कृतं॒ दैव्यं॒ जन॑म् । अ॒ग्निं मि॒त्रं वरु॑णं सा॒तये॒ भगं॒ द्यावा॑पृथि॒वी म॒रुत॑: स्व॒स्तये॑ ॥
bharéṣv índraṃ suhávaṃ havāmahe ’ṃhómúcaṃ sukṛtáṃ daívyaṃ jánam | agníṃ mitráṃ váruṇaṃ sātáye bhágaṃ dyā́vāpṛthivī́ marútaḥ svastáye ||
In the battles we call Indra, easy to invoke, the releaser from distress, the well-doing divine people. We call Agni, Mitra, Varuṇa for the winning, Bhaga, Heaven-and-Earth, and the Maruts—for our well-being.
भरे॑षु । इन्द्र॑म् । सु॒ऽहव॑म् । ह॒वा॒म॒हे॒ । अं॒हः॒ऽमुच॑म् । सु॒ऽकृत॑म् । दैव्य॑म् । जन॑म् । अ॒ग्निम् । मि॒त्रम् । वरु॑णम् । सा॒तये॑ । भग॑म् । द्यावा॑पृथि॒वी इति॑ । म॒रुतः॑ । स्व॒स्तये॑ ॥भरेषु । इन्द्रम् । सुहवम् । हवामहे । अंहःमुचम् । सुकृतम् । दैव्यम् । जनम् । अग्निम् । मित्रम् । वरुणम् । सातये । भगम् । द्यावापृथिवी इति । मरुतः । स्वस्तये ॥bhareṣu | indram | su-havam | havāmahe | aṃhaḥ-mucam | su-kṛtam | daivyam | janam | agnim | mitram | varuṇam | sātaye | bhagam | dyāvāpṛthivī iti | marutaḥ | svastaye