Sukta 10.63
य ईशिरे भुवनस्य प्रचेतसो विश्वस्य स्थातुर्जगतश्च मन्तवः । ते नः कृतादकृतादेनसस्पर्यद्या देवासः पिपृता स्वस्तये ॥
य ईशि॑रे॒ भुव॑नस्य॒ प्रचे॑तसो॒ विश्व॑स्य स्था॒तुर्जग॑तश्च॒ मन्त॑वः । ते न॑: कृ॒तादकृ॑ता॒देन॑स॒स्पर्य॒द्या दे॑वासः पिपृता स्व॒स्तये॑ ॥
yá ī́śire bhúvanasya práketaso víśvasya sthātúr jágataś ca mántavaḥ | té naḥ kṛtā́d ákṛtād énasaḥ pár y adyá devāsaḥ pipṛta svastáye ||
You who rule the world by awakened consciousness, who are thinkers of all that stands and moves—do you, O gods, guard us today all around from sin, from what we have done and what we have not done, for our well-being.
ये । ईशि॑रे । भुव॑नस्य । प्रऽचे॑तसः । विश्व॑स्य । स्था॒तुः । जग॑तः । च॒ । मन्त॑वः । ते । नः॒ । कृ॒तात् । अकृ॑तात् एन॑सः । परि॑ । अ॒द्य । दे॒वा॒सः॒ । पि॒पृ॒त॒ । स्व॒स्तये॑ ॥ये । ईशिरे । भुवनस्य । प्रचेतसः । विश्वस्य । स्थातुः । जगतः । च । मन्तवः । ते । नः । कृतात् । अकृतात् एनसः । परि । अद्य । देवासः । पिपृत । स्वस्तये ॥ye | īśire | bhuvanasya | pra-cetasaḥ | viśvasya | sthātuḥ | jagataḥ | ca | mantavaḥ | te | naḥ | kṛtāt | akṛtāt enasaḥ | pari | adya | devāsaḥ | pipṛta | svastaye