Sukta 10.63
येभ्यो होत्रां प्रथमामायेजे मनुः समिद्धाग्निर्मनसा सप्त होतृभिः । त आदित्या अभयं शर्म यच्छत सुगा नः कर्त सुपथा स्वस्तये ॥
येभ्यो॒ होत्रां॑ प्रथ॒मामा॑ये॒जे मनु॒: समि॑द्धाग्नि॒र्मन॑सा स॒प्त होतृ॑भिः । त आ॑दित्या॒ अभ॑यं॒ शर्म॑ यच्छत सु॒गा न॑: कर्त सु॒पथा॑ स्व॒स्तये॑ ॥
yébhyó hotrā́ṃ prathamā́m āyéje mánuḥ samíddhāgnír mánasā saptá hótr̥bhiḥ | té ādityā́ abháyaṃ śárma yacchata sugā́ naḥ karta supáthā svastáye ||
To whom Manu first offered the oblation-priesthood—kindling Agni with the mind, with the seven priests—those Ādityas, grant us fearless peace; make for us good goings and a fair path, for our well-being.
येभ्यः॑ । होत्रा॑म् । प्र॒थ॒माम् । आ॒ऽये॒जे । मनुः॑ । समि॑द्धऽअग्निः । मन॑सा । स॒प्त । होतृ॑ऽभिः । ते । आ॒दि॒त्याः॒ । अभ॑यम् । शर्म॑ । य॒च्छ॒त॒ । सु॒ऽगा । नः॒ । क॒र्त॒ । सु॒ऽपथा॑ । स्व॒स्तये॑ ॥येभ्यः । होत्राम् । प्रथमाम् । आयेजे । मनुः । समिद्धअग्निः । मनसा । सप्त । होतृभिः । ते । आदित्याः । अभयम् । शर्म । यच्छत । सुगा । नः । कर्त । सुपथा । स्वस्तये ॥yebhyaḥ | hotrām | prathamām | āyeje | manuḥ | samiddha-agniḥ | manasā | sapta | hotṛ-bhiḥ | te | ādityāḥ | abhayam | śarma | yacchata | su-gā | naḥ | karta | su-pathā | svastaye