Sukta 10.63
को वः स्तोमं राधति यं जुजोषथ विश्वे देवासो मनुषो यति ष्ठन । को वोऽध्वरं तुविजाता अरं करद्यो नः पर्षदत्यंहः स्वस्तये ॥
को व॒: स्तोमं॑ राधति॒ यं जुजो॑षथ॒ विश्वे॑ देवासो मनुषो॒ यति॒ ष्ठन॑ । को वो॑ऽध्व॒रं तु॑विजाता॒ अरं॑ कर॒द्यो न॒: पर्ष॒दत्यंह॑: स्व॒स्तये॑ ॥
kó vaḥ stómaṃ rā́dhati yáṃ jújoṣatha víśve devāso manuṣó yáti ṣṭhána | kó vo ’dhvaráṃ tuvijātā áram karad yó naḥ párṣad áty áṃhaḥ svastáye ||
Who will accomplish for you the hymn you accept, O all gods, as you take your stand in the human seeker? Who will rightly set in motion your sacrifice, O widely-born powers—he who will carry us beyond distress, for our well-being?
कः । वः॒ । स्तोम॑म् । रा॒ध॒ति॒ । यम् । जुजो॑षथ । विश्वे॑ । दे॒वा॒सः॒ । म॒नु॒षः॒ । यति॑ । स्थन॑ । कः । वः॒ । अ॒ध्व॒रम् । तु॒वि॒ऽजा॒ताः॒ । अर॑म् । क॒र॒त् । यः । नः॒ । पर्ष॑त् । अति॑ । अंहः॑ । स्व॒स्तये॑ ॥कः । वः । स्तोमम् । राधति । यम् । जुजोषथ । विश्वे । देवासः । मनुषः । यति । स्थन । कः । वः । अध्वरम् । तुविजाताः । अरम् । करत् । यः । नः । पर्षत् । अति । अंहः । स्वस्तये ॥kaḥ | vaḥ | stomam | rādhati | yam | jujoṣatha | viśve | devāsaḥ | manuṣaḥ | yati | sthana | kaḥ | vaḥ | adhvaram | tuvi-jātāḥ | aram | karat | yaḥ | naḥ | parṣat | at i | aṃhaḥ | svastaye