Sukta 10.63
सम्राजो ये सुवृधो यज्ञमाययुरपरिह्वृता दधिरे दिवि क्षयम् । ताँ आ विवास नमसा सुवृक्तिभिर्महो आदित्याँ अदितिं स्वस्तये ॥
स॒म्राजो॒ ये सु॒वृधो॑ य॒ज्ञमा॑य॒युरप॑रिह्वृता दधि॒रे दि॒वि क्षय॑म् । ताँ आ वि॑वास॒ नम॑सा सुवृ॒क्तिभि॑र्म॒हो आ॑दि॒त्याँ अदि॑तिं स्व॒स्तये॑ ॥
samrā́jo yé suvṛ́dho yajñám āyayúr áparihvṛtā dadhiré diví kṣáyam | tā́n ā́ vivāsa námasā suvṛktíbhir mahó ādityā́n áditiṃ svastáye ||
Those sovereign powers, well-increasing, who have come to the sacrifice and, unobstructed, have established their dwelling in Heaven—those great Ādityas and Aditi I serve with obeisance and with well-shaped words, for our well-being.
स॒म्ऽराजः॑ । ये । सु॒ऽवृधः॑ । य॒ज्ञम् । आ॒ऽय॒युः । अप॑रिऽह्वृताः । द॒धि॒रे । दि॒वि । क्षय॑म् । तान् । आ । वि॒वा॒स॒ । नम॑सा । सु॒वृ॒क्तिऽभिः॑ । म॒हः । आ॒दि॒त्यान् । अदि॑तिम् । स्व॒स्तये॑ ॥सम्राजः । ये । सुवृधः । यज्ञम् । आययुः । अपरिह्वृताः । दधिरे । दिवि । क्षयम् । तान् । आ । विवास । नमसा । सुवृक्तिभिः । महः । आदित्यान् । अदितिम् । स्वस्तये ॥sam-rājaḥ | ye | su-vṛdhaḥ | yajñam | āyayuḥ | apari-hvṛtāḥ | dadhire | divi | kṣayam | tān | ā | vivāsa | namasā | suvṛkti-bhiḥ | mahaḥ | ādityān | aditim | svastaye