Sukta 10.63
नृचक्षसो अनिमिषन्तो अर्हणा बृहद्देवासो अमृतत्वमानशुः । ज्योतीरथा अहिमाया अनागसो दिवो वर्ष्माणं वसते स्वस्तये ॥
नृ॒चक्ष॑सो॒ अनि॑मिषन्तो अ॒र्हणा॑ बृ॒हद्दे॒वासो॑ अमृत॒त्वमा॑नशुः । ज्यो॒तीर॑था॒ अहि॑माया॒ अना॑गसो दि॒वो व॒र्ष्माणं॑ वसते स्व॒स्तये॑ ॥
nṛcákṣaso ánimīṣanto arháṇā bṛhád devā́so amṛtatvám ānaśuḥ | jyótīrathā́ áhimāyā anā́gaso divó varṣmā́ṇaṃ vasate svastáye ||
The gods with the seeing of the soul, unblinking, worthy of adoration, have attained immortality in the Vast. Riding on chariots of light, free from the serpent’s illusion, without fault, they clothe themselves in the high expanse of Heaven for our well-being.
नृ॒ऽचक्ष॑सः । अनि॑ऽमिषन्तः । अ॒र्हणा॑ । बृ॒हत् । दे॒वासः॑ । अ॒मृ॒त॒ऽत्वम् । आ॒न॒शुः॒ । ज्यो॒तिःऽर॑थाः । अहि॑ऽमायाः । अना॑गसः । दि॒वः । व॒र्ष्माण॑म् । व॒स॒ते॒ । स्व॒स्तये॑ ॥नृचक्षसः । अनिमिषन्तः । अर्हणा । बृहत् । देवासः । अमृतत्वम् । आनशुः । ज्योतिःरथाः । अहिमायाः । अनागसः । दिवः । वर्ष्माणम् । वसते । स्वस्तये ॥nṛ-cakṣasaḥ | ani-miṣantaḥ | arhaṇā | bṛhat | devāsaḥ | amṛta-tvam | ānaśuḥ | jyotiḥ-rathāḥ | ahi-māyāḥ | anāgasaḥ | divaḥ | varṣmāṇam | vasate | svastaye