Sukta 10.63
येभ्यो माता मधुमत्पिन्वते पयः पीयूषं द्यौरदितिरद्रिबर्हाः । उक्थशुष्मान्वृषभरान्त्स्वप्नसस्ताँ आदित्याँ अनु मदा स्वस्तये ॥
येभ्यो॑ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पय॑: पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑बर्हाः । उ॒क्थशु॑ष्मान्वृषभ॒रान्त्स्वप्न॑स॒स्ताँ आ॑दि॒त्याँ अनु॑ मदा स्व॒स्तये॑ ॥
yébhyó mātā mádhumat pínvate páyaḥ pīyū́ṣaṃ dyáur áditiḥ ádribarhāḥ | uktháśuṣmān vṛṣabhárān svápnasas tā́n ādityā́n ánu madā svastáye ||
Follow in delight those Ādityas for whom the Mother pours the honeyed milk, the very pīyūṣa of immortality—Heaven and Aditi, pressing down the rock of obstruction. Mighty with the force of the inspired utterance, bearing the virile power, lords of luminous vision: with them may we move for our well-being.
येभ्यः॑ । मा॒ता । मधु॑ऽमत् । पिन्व॑ते । पयः॑ । पी॒यूष॑म् । द्यौः । अदि॑तिः । अद्रि॑ऽबर्हाः । उ॒क्थऽशु॑ष्मान् । वृ॒ष॒ऽभ॒रान् । स्वप्न॑सः । तान् । आ॒दि॒त्यान् । अनु॑ । म॒द॒ । स्व॒स्तये॑ ॥येभ्यः । माता । मधुमत् । पिन्वते । पयः । पीयूषम् । द्यौः । अदितिः । अद्रिबर्हाः । उक्थशुष्मान् । वृषभरान् । स्वप्नसः । तान् । आदित्यान् । अनु । मद । स्वस्तये ॥yebhyaḥ | mātā | madhu-mat | pinvate | payaḥ | pīyūṣam | dyauḥ | aditiḥ | adri-barhāḥ | uktha-śuṣmān | vṛṣa-bharān | svapnasaḥ | tān | ādityān | anu | mada | svastaye