Sukta 10.63
विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानि वः । ये स्थ जाता अदितेरद्भ्यस्परि ये पृथिव्यास्ते म इह श्रुता हवम् ॥
विश्वा॒ हि वो॑ नम॒स्या॑नि॒ वन्द्या॒ नामा॑नि देवा उ॒त य॒ज्ञिया॑नि वः । ये स्थ जा॒ता अदि॑तेर॒द्भ्यस्परि॒ ये पृ॑थि॒व्यास्ते म॑ इ॒ह श्रु॑ता॒ हव॑म् ॥
viśvā́ hí vo namasyā́ni vándyā nā́māni devā utá yajñiyā́ni vaḥ | yé stha jātā́ áditer adbhyás pári yé pṛthivyā́s té ma ihá śrutā́ hávam ||
All your acts are worthy of our bowing, O gods, and your names are to be praised, and your powers are fit for sacrifice. You who are born of Aditi, from the waters, you who belong to the earth—hear here my call.
विश्वा॑ । हि । वः॒ । न॒म॒स्या॑नि । वन्द्या॑ । नामा॑नि । दे॒वाः॒ । उ॒त । य॒ज्ञिया॑नि । वः॒ । ये । स्थ । जा॒ताः । अदि॑तेः । अ॒त्ऽभ्यः । परि॑ । ये । पृ॒थि॒व्याः । ते । मे॒ । इ॒ह । श्रु॒त॒ । हव॑म् ॥विश्वा । हि । वः । नमस्यानि । वन्द्या । नामानि । देवाः । उत । यज्ञियानि । वः । ये । स्थ । जाताः । अदितेः । अत्भ्यः । परि । ये । पृथिव्याः । ते । मे । इह । श्रुत । हवम् ॥viśvā | hi | vaḥ | namasyāni | vandyā | nāmāni | devāḥ | uta | yajñiyāni | vaḥ | ye | stha | jātāḥ | aditeḥ | at-bhyaḥ | pari | ye | pṛthivyāḥ | te | me | iha | śruta | havam