Sukta 10.63
परावतो ये दिधिषन्त आप्यं मनुप्रीतासो जनिमा विवस्वतः । ययातेर्ये नहुष्यस्य बर्हिषि देवा आसते ते अधि ब्रुवन्तु नः ॥
प॒रा॒वतो॒ ये दिधि॑षन्त॒ आप्यं॒ मनु॑प्रीतासो॒ जनि॑मा वि॒वस्व॑तः । य॒याते॒र्ये न॑हु॒ष्य॑स्य ब॒र्हिषि॑ दे॒वा आस॑ते॒ ते अधि॑ ब्रुवन्तु नः ॥
parāváto yé didhíṣanta ā́pyaṃ mánu-prītāso jánimā vivásvataḥ | yayā́ter yé nahuṣyásya bárhiṣi devā́ āsate té ádhi bruvantu naḥ ||
May those gods who from afar establish the intimate waters of being, who delight in Manu, the offspring of Vivasvat; who sit upon the sacred seat in the rite of Yayāti, of Nahusha—may they speak to us from above, guiding our understanding.
प॒रा॒ऽवतः॑ । ये । दिधि॑षन्ते । आप्य॑म् । मनु॑ऽप्रीतासः । जनि॑म । वि॒वस्व॑तः । य॒यातेः॑ । ये । न॒हु॒ष्य॑स्य । ब॒र्हिषि॑ । दे॒वाः । आस॑ते । ते । अधि॑ । ब्रु॒व॒न्तु॒ । नः॒ ॥परावतः । ये । दिधिषन्ते । आप्यम् । मनुप्रीतासः । जनिम । विवस्वतः । ययातेः । ये । नहुष्यस्य । बर्हिषि । देवाः । आसते । ते । अधि । ब्रुवन्तु । नः ॥parāvataḥ | ye | didhiṣante | āpyam | manu-prītāsaḥ | janima | vivasvataḥ | yayāteḥ | ye | nahuṣyasya | barhiṣi | devāḥ | āsate | te | adhi | bruvantu | naḥ